-

മേഘദൂതം ഭാഗം – 1
कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्त: शापेनास्तं गमितमहिमा वर्षभोग्येन भर्तु: यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्द्धच्छयातरुषु वसतिं रामगिर्याश्रमेषु 1 तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्त: स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठ: आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतजगजप्रेक्षणीयं ददर्श् 2 तस्य स्थित्वा कथमपि पुर: केतकाधानहेतो: अन्तर्बाष्प: चिरमनुचरो राजराजस्य दध्यौ मेघालोके भवति सुखिनोपि अन्यथावृत्ति चेत: कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसम्स्थे 3 प्रत्यासन्ने नभसि दयिताजीवितालंबनार्त्थी जीमूतेन स्वकुशलमयीं […]
-

മേഘദൂതം ഭാഗം – 2
आपृच्छस्व प्रियसखममुं तुंगमालिंग्य शैलं वन्दै: पुंसां रघुपतिपदैरंगितं मेघलासु काले काले भवति यस्य सम्योगमेत्य स्नेहव्यक्ति: चिरविरहजं मुञ्चतो बाष्पमुष्णम् 12 मार्गं तावच्छृणु कथयत: त्वत्प्रयाणानुरूपं सन्देशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयं खिन्न: खिन्न: शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीण: क्षीण: परिलघुपय: श्रोतसां चोपयुज्य 13 अद्रे: शृंगं वहति पवन: किं स्विदित्युन्मुखीभि: दृष्टोत्साहश्चकितचकितं मुग्द्धसिद्धांगनाभि: स्थानादस्मात् सरसनिचुलात् उत्पदोदङ्मुख: खं […]
-
മേഘദൂതം ഭാഗം – 3
पाण्डुच्छायोपवनवृतय: केतकैस्सूचिभिन्नै: नीडारम्भे गृहबलिभुजां आकुलग्रामचैत्या: त्वय्यासन्ने फलपरिणतिश्यामजम्पूवनान्ता: सम्पत्स्यन्ते कतिपयदिनस्थायिहम्सा दश्शार्णा: 25 तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सद्य: फलमतिमहत् कामुकत्वस्य लब्धा तीरोपान्तस्तनितसुभगं पास्यसि स्वादुयुक्तं सभ्रूभंगं मुखमिव पयो वेत्रवत्याश्चलोर्म्या: 26 नीचैराख्यां गिरिमधिवसेस्तत्र विश्रामहेतो: त्वत् सम्पर्कात् पुलकितमिव प्रौढपुष्पै: कदम्बे य: पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणां उद्दामानि प्रथयति शिलावेश्मभिर्योवनानि 27 विश्रान्तस्सन् व्रज वननदीतीरजातानि सिञ्ज न्नुद्यानानां नवजलकणै: यूथिकाजालकानि गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायदानात् क्षणपरिचित: […]
-
മേഘദൂതം ഭാഗം – 4
अप्यन्यस्मिन् जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदभ्येति भानु: कुर्वन् सन्ध्यावलिपडहतां शूलिन: श्लाघनीयां आमन्ध्राणां फलमविकलं लप्स्यसे गर्ज्जितानाम् 36 पादन्यासक्वणितरशनास्तत्र लीलावधूतै: रत्नच्छायाखचितबलिभि: चामरै: क्लान्तहस्ता: वेस्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दू नामोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान कडाक्षान् 37 पश्चादुच्चैर्भुजतरु वनं मण्डलेनाभिलीन स्सान्ध्यं तेज प्रतिनवजपापुष्परक्तं दधान: नृत्यारंभे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या: 38 गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे […]
-
മേഘദൂതം ഭാഗം – 5
त्वन्निष्यन्दोच्वसितवसुधागन्धसम्पर्करम्य- श्रोतोरन्ध्रध्वनिितसुभगं दन्तिभिः पीयमानः नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम्॥ 44 तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान्व्योमगंगाजलार्द्रैः। रक्षाहेतोर्नवशशिभृता वासवीनां चमूना- मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः॥ 45 ज्योतिर्लेखावलयि गलितं यस्य बर्हे भवानी पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति। धौतापाङगं हरशशिरुचः पावकेस्तं मयूरं पपश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः॥ 46 आराध्यैनं सरवणभवं देवमुल्लङ्घिताध्वा सिद्धद्वन्दवै्र्जलकणभयाद्वीणिभिर्मुक्तमार्गः। व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् स्रोतोमूर्त्त्या बुवि […]
-
മേഘദൂതം ഭാഗം – 6
तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा बाधेतोल्क्काक्षपितचमरीबालभारो दवाग्निः। अर्हस्येनं शमयितुमलं वारिधारासहस्रै- रापन्नार्तिप्रशमनफलाः सम्पदोह्युत्तमानाम्॥ 55 ये त्वां मुक्तध्वनिमसहनाः स्वांङ्गभङ्गाय तस्मिन् दर्पोत्सेकादुपरि शरभा लङ्घयिष्यन्त्यलंघ्यम्। तान् कुर्व्वीथास्तुमुलकरकावृष्टिहासावकीर्णान् के वा न स्युः परिभवपदं निष्फलारम्भयत्ना॥ 56 तत्र व्यक्तं दृषदि चरणन्यासमर्द्धेन्दुमौलेः शश्वत्सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः। यस्मिन् दृष्टे करणविगमादूर्द्ध्वमुध्धूतपापाः कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्धधानाः॥ 57 शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः संरक्तभिस्त्रिपुरविजयो गीयते किन्नरीभिः। निर्ह्रादस्ते मुरज […]
-
മേഘദൂതം ഭാഗം – 7
विद्युत्वन्तमं ललितवनितस्सेन्द्रचापं सचित्रा- स्संगीताय प्रहतमुरजा: स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङगमभ्रंलिहग्रा: प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषै:॥ 66 हस्ते लीलाकमलमलके बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसापाण्डुतामाननश्री । चूडापाशे नवकरुवकं चारुवर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम्॥ 67 यस्याम यक्षा: सितमणि मयानेत्या हर्म्य स्थलानि ज्योतिच्छाया कुसुमखाचितांन युत्तामास्त्रीसहाया: आसेवन्ते मधु रतिफल कल्पवृक्षाप्रसूतम त्वदगम्भीरध्वनिषु शनकै पुष्करे श्वाहातेषु 68 गत्यूलकंपादलकापतितेर्यात्रा मन्दारपुष्पैः क्लिप्त […]
-
മേഘദൂതം ഭാഗം – 8
तन्मध्ये च स्फटिकफलका काञ्चनीवासयष्टिर्- मूले बध्वामणिभिरनतिप्रौढवंशप्रकाशैः तालैः शिञ्चद्वलयसुभगैः कान्तया नर्तितो मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः 78 एभिस्साधो हृदयनिहितैर्लक्षणैर्ल्लक्षयेथाः द्वारोपान्ते लिखितवपुषौ शंखपद्मौ च दृष्ट्वा । क्षामच्छायं भवनमधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्यम्॥ 79 गत्वा सद्यः कलभतनुतां तत्परित्राणहेतोः क्रीडाशैले प्रथमकथिते रम्यसानौ निषणः। अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम्॥ 80 तन्वी श्यामा शिखरिदशना […]
-
മേഘദൂതം ഭാഗം – 9
पादानिन्दोरमृतशिशिरान् जालमार्ग्गप्रविष्टान् पूर्व्वप्रीत्या गतमभिमुखं सन्निवृत्तं तथैव चक्षु: खेदात् सलिलगुरुभि: पक्ष्मभिछादयन्तीं साभ्रेह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् 91 सा सन्यस्ताभरणमबला कोमलं धारयन्तीं शय्योत्संगे निहितमसकृद्दु:खदु:खेन गात्रं त्वामप्यश्रुं जललवमयं मोचयिष्यत्यवश्यं प्राय: सर्व्वोभवति करुणावृत्तिरार्द्रान्तरात्मा 92 जाने सख्यास्तव मयि मनस्संभृतस्नेहमस्मात् इत्थं भूतां प्रथमविरहे तामहं तर्क्कयामि वाचालं मां न खलु सुभगं मन्यभाव: करोति प्रत्यक्षं ते निखिलमचिरात् भ्रातरुक्तं मया यत् […]
-
മേഘദൂതം ഭാഗം – 10
നിന്റെ ഉടലിനെ ഞാവല് വള്ളികളിലും, നോട്ടത്തെ പേടിച്ച പേടമാന് മിഴിയിലും, കപോല കാന്തിയെ ചന്ദ്രനിലും, പുരികക്കളികളെ ആറ്റിലെ ചിറ്റോളങ്ങളിലും ഞാന് ഉത്പ്രേക്ഷിച്ചെങ്കിലും അവയില് നിന്റെ സാദൃശ്യം ഒത്തു ചേര്ന്നു കണ്ടില്ല. പാറപ്പുറത്തു ധാതുച്ചായങള് കൊണ്ടു നിന്നെ പ്രണയകുപിതയായി എഴുതിയിട്ടു എന്നെ നിന്റെ കാല്ക്കല് വീണ നിലയില് എഴുതാന് വിചാരിക്കുമ്പൊഴേക്കു ഊറിയൂറി വരുന്ന കണ്ണുനീരുകളെ കൊണ്ടു എന്റെ കാഴ്ച്ച മൂടിപ്പൊകുന്നു. ക്രൂരനായ വിധി അവിടെയും നാം ഒത്തു ചേരുന്നതു പൊറുക്കുന്നില്ല.
