Audio
स्थातव्यं ते नयनविषयं यावदभ्येति भानु:
कुर्वन् सन्ध्यावलिपडहतां शूलिन: श्लाघनीयां
आमन्ध्राणां फलमविकलं लप्स्यसे गर्ज्जितानाम् 36
पादन्यासक्वणितरशनास्तत्र लीलावधूतै:
रत्नच्छायाखचितबलिभि: चामरै: क्लान्तहस्ता:
वेस्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दू
नामोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान कडाक्षान् 37
पश्चादुच्चैर्भुजतरु वनं मण्डलेनाभिलीन
स्सान्ध्यं तेज प्रतिनवजपापुष्परक्तं दधान:
नृत्यारंभे हर पशुपतेरार्द्रनागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या: 38
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
रुद्धालोके नरपतिपथे सूचिभेदैस्तमोभि:
सौदामिन्या कनकनिकषस्निग्द्धया दर्शयोर्वीं
तोयोत्सर्ग्गस्तनितमुखरो मा च भूर्विक्लवास्ता: 39
तां कस्याञ्जित्भवनवलभौ सुप्तपारावतायां
नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्र:
दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्यंपेतार्त्थकृत्या: 40
तस्मिन्काले नयनसलिलं योषितां खण्डितानां
शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु।
प्रालेयास्रं कमलवदनात्सोऽपि हर्तु.नलिन्याः
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः॥ 41
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने
छायात्मापि प्रकृतिसुभगो लप्स्यसे ते प्रवेशम्।
तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या-
न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ 42
तस्याःकिञ्चित्करधृतमिव प्राप्तवानीरशाखं
हृत्वा नीलं सलिलवसनं मुक्तोरोधोनितम्बम्।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादो पुलिनजघनां को विहातुं समर्थः॥ 43
തവന്നിഷ്യശ്ദാ ( ശ്ലാകം -44)- ആസ്ീനാനാം ( ശ്ലാകം -54)