Audio
सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन
दीर्घोछ्वासं समधिकतरोछ्वासिना दूरवर्त्ती
सङ्कल्प्पैस्ते विशति विधिनावैरिणा रुद्धमार्ग: 101
शब्दाख्येयं यदपि किल ते य: सखीनां पुरस्तात्
कर्ण्णे लोल: कथयितुमभूदाननस्पर्शलोभात्
सोतिक्रान्त: श्रवणविषयं लोचनाभ्यामदृश्य
स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह 102
श्यामास्वंगं चकितहरिणीप्रेक्षणे दृष्टिपातं
गण्डछायां शशिनि शिखिनां बर्हभारेषु केशान्
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्
हन्तैकस्तं क्वचिदपि न ते चण्डि सादृश्यमस्ति 103
त्वमालिख्य प्रणयकुपितां धातुरागैश्शिलाया
मात्मानं ते चरणपतितं यावदिछामि कर्त्तुं
अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्त: 104
धारासिक्तस्थलसुरभिणस्त्वन्मुखस्यास्य बाले
दूरीभूतं प्रतनुमपि मां पञ्चबाण: क्षिणोति
धर्मान्तेस्मिन् विगणय कथं वासराणि व्रजेयु:
दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि 105
मामाकाशप्रणिहितभुजं निर्द्दयाश्लेषहेतो:
लब्धायास्ते कथमपि मया स्वप्रसन्दर्शनेषु
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास्तरुकिशलयेष्वश्रुलेशा: पतन्ति 106
भित्वा सद्य: किसलयपुटान् देवतारुद्रुमाणां
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ता:
आलिंगन्ते गुणवति मया ते तुषारार्द्रिवाता:
पूर्व्वं स्पृष्टं यदि किल भवेदंगमेभिस्तवेति 107
संक्षिप्येत क्षणमिव कथं दीर्खयामा त्रियामा
सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात्
इत्थं चेतश्चटुलनयने दुर्ल्लभप्रार्थनं मे
गाढोष्णाभि: कृतमशरणं त्वद्वियगव्यथाभि: 108
नन्वात्मानं बहु विगणयन्नात्मना नावलम्बे
तत् कल्याणि त्वमपि नितरां म गम: कातरत्वं
कस्यात्यन्तं सुखमुपगतं दु:खमेकान्ततो वा
नीचैर्ग्गचत्युपरि च दशा चक्रनेमिक्रमेण 109
शापान्ते मे भुजगशयनादुत्थिते शार्ङ्गपाणौ
मासानेतान् गमय चतुरो लोचने मीलयित्वा
पश्चादावां विरहगुणितां तं तमात्माभिलाषं
निर्व्वेक्ष्याव: परिणतशरच्चन्द्रिकासु क्षपासु 110
भूयश्चापि त्वमसि शयने कण्ठलग्ना पुरा मे
निद्रांगत्वा किमपि रुदति सत्वरं विप्रबुद्धा
सान्तर्हासं कथितमसकृत् पृच्छतस्य त्वया मे
दृष्ट: स्वप्ने कितव रमयन् कामपि त्वं मयेति 111
एतस्मान्मां कुशलिनमभिञ्जानदानाद्विदिता
मा कौलीनादसितनयने मय्यविश्वासिनी भू:
स्नेहानाहु: किमपि विरहव्यापदस्ते ह्यभोग्या
दृष्टे वस्तुन्युपचितरसा: प्रेमराशीभवन्ति 112
किञ्चित् सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे
प्रत्यादेशान्नखलु भवतो धीरतां तर्क्कयामि
निश्शब्दोहि प्रदिशसि जलं याचितश्चातकेभ्य:
प्रत्युक्तं तु प्रणयिषु सतामीप्सितार्थक्रियैव 113
आश्वासैनां प्रथमविरहादुग्रशोकां सखीं मे
शैलादस्मात् त्रिनयनवृक्षोत्खातकूटान्निवृत्त:
साभिज्ञानप्रहितकुशलै: तद्वचोभिर्ममापि
प्रात: कुन्दप्रसवशिथिलं जीवितं धारयेथा: 114
एतत्कृत्वा प्रियमनुचितप्रार्थनावर्त्तिनो मे
सौहार्द्राद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या
इष्टान्देशाज्जलद विचर प्रावृषा संभृतश्री
र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोग: 115
श्रुत्वा वर्त्तां जलदकथितां तांधनेशोपि सद्य:
शापस्यान्तं सदयहृदय: संविधायास्तकोप:
संयोज्यैतो विगलितशुचौ दम्पती हृष्टचित्तौ
भोगानिष्टानविरतसुखं भोजयामास शश्वत् 116
இவ்விதமாக அந்த யக்ஷன் மேகத்திடமிருந்து எந்தப் பதிலையும் எதிர்பாராமலேயே அதனிடம் நன்றியுள்ளவனானான்
பிரபஞ்சத்தில் பிரிவுத் துயரம் என்பது மனிதனுக்கு மாத்திரமல்ல, எல்லா உயிரினங்களுக்கும் உள்ளதல்லவா? நதிகளும் குன்றுகளும் அன்னப்பறவைகளும் மழையும் இந்தக் காவியத்தில் காதலின் பிரதிபிம்பங்களாகும். கால தேசங்களுக்கும் அப்பால் பிரிவுத் துயரால் வாடும் ஒவ்வொரு மனதினுடையவும் துணையாகி, மேகம் இப்பொழுதும் நிலை கொள்கிறது.